श्रीआचार्यपरम्परा प्रणाम् स्तोत्रम्‌ || जगद्गुरु श्री राधासर्वेशरशरणदेवाचार्य श्री "श्रीजी" महाराज

 श्रीआचार्यपरम्परा प्रणाम् स्तोत्रम्‌ 



श्रीआचार्यपरम्परा प्रणाम् स्तोत्रम्‌ || जगद्गुरु श्री राधासर्वेशरशरणदेवाचार्य श्री "श्रीजी" महाराज


श्री हंसं सनकादिकं मुनिवरं वीणाधरं नारदं ,

श्रीमन्निम्बदिवाकरार्यकमहं श्रीश्रीनिवासं भजे ।।

विश्वार्य्यपूरुषोत्तमञ्चभवहन्‌ श्रीमद्विलासास्वरू-

पाचार्य्यं किलमाधवं च वलयुकभद्रं च पद्मार्पकम्‌ ।।१।।


वन्दे श्यामकगोपपालककृपान्‌ देवार्यकं सुन्दरं ,

पद्मोपेन्द्रक-रामचन्द्रकभटान्‌ श्रीवामनं कृष्णकम्‌ ।।

पद्माभं श्रवणाञ्च भूरिभटकं श्रीमाधवं श्यामलम्‌ ,

गोपालं बलभद्रगोपिवरद श्रीकेशवं गांगलम्‌ ।।२।।


काशमीरीयुतकेशवं भटमहं श्रीभट्टदेवं भजे

श्रीव्यासं हरिमध्यगञ्चवरदं श्रीपरशुरामामिधम्‌ ॥

वन्दे श्रीहरिवंशदेवचरणं नारायणार्यं भजे

श्रीवृन्दावनदेवपादशरणं गोविन्ददेवं भजे ॥३॥


गोविन्दं प्रणमामि देव शरणं शैलीनवीनाञ्करं

लोके ख्याति विधायक गुरुवरं सर्वश्व रार्यं भजे ।।

श्रीनिम्बार्कपदं सदेवशरणं नित्यं नुमश्चेतसा

वन्दे श्रीब्रजराजपादशरणं देवान्तनामामिधम्‌ ।।४।।


श्रीगोपेश्वरपादपद्मयुगलं नौमि प्रलोभांन्तकं

पीठं येन विनिर्मितं सुरुचिरं कुण्डं पयोधीकृतम्‌ ।।

राधामाधवपादलोलुपघनश्यामार्यपादं पुनः

देवाचार्यकसंज्ञकं शरणयुक्श्रीबालकृष्णामिधम्‌ ।।५॥


वेदवेदान्ततत्त्वज्ञमिष्टाराधनमानसम्‌ ।

राधासर्वेश्वरशरणाचार्यं गुरूदेवं नमाम्यहम्‌ ।।६।।



[ हर क्षण जपते रहिये ]

राधेकृष्ण राधेकृष्ण कृष्ण कृष्ण राधे राधे | राधेश्याम राधेश्याम श्याम श्याम राधे राधे ||


Join Telegram

Post a Comment

0 Comments