अनन्त श्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर
श्रीराधासर्वेश्वरशरणदेवाचार्यजी महाराज द्वारा प्रणीत॥
श्री परशुरामदेवाचार्य--चतुश्श्लोकी
श्रुति-पुराण-तन्त्रज्ञं राधासर्वेश्वराश्रितम् ।
परशुराममाचार्यं वन्दे नित्यं जगद्गुरुम् ॥१॥
निम्बार्काचार्यपीठेशं श्रीमंनिम्बार्करूपिणम् ।
परशुराममाचार्यं वन्दे नित्यं जगद्गुरुम् ॥२॥
श्रीहरिव्यासदेवानां शिष्यं सर्वप्रपूजितम् ।
परशुराममाचार्यं वन्दे नित्यं जगद्गुरुम् ॥३॥
प्रत्यक्षं सिद्धिदं दिव्यं देवाचार्य दयाकरम् ।
परशुराममाचार्यं वन्दे नित्यं जगद्गुरुम् ॥४॥
जय राधामाधव !!
[ हर क्षण जपते रहिये ]
Join Telegram
0 Comments
You Can Ask Here About Sampraday